The Kama Sutra of Vatsyayana वात्स्यायन का कामसूत्रऔपनिषदिकं नष्टरागप्रत्यानयनं वृद्धिविधयश् चित्राश् च योगा ७.२.१> चन्डवेगां रञ्जयितुम् अशक्नुवन् योगान् आचरेत्/ ७.२.२> रतस्यौपक्रमे संबाधस्य करेणौपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनम् इति रागप्रत्यानयनम्/ ७.२.३> औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य श्रान्तस्य च रागप्रत्यानयनम्/ ७.२.४> अपद्रव्याणि वा योजयेत्/ ७.२.५> तानि सुवर्णरजतताम्रकालआयसगजदन्तगवलद्रव्यमयाणि ७.२.६> त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि *वृष्याणि कर्मसहिष्णूनि[अन्यत्र : कर्माणि च धृष्णूनि] भवन्तिइति बाभ्रवीया योगाः/ ७.२.७> दारुमयानि साम्यतश् चैति वात्स्यायनः/ ७.२.८> लिङ्गप्रमाणअन्तरं बिन्दुभिः कर्कशपर्यन्तं *बहुलैः[अन्यत्र : बहुलं] स्यात्/ ७.२.९> एत एव द्वे संघाटी/ ७.२.१०> त्रिप्रभृति यावत् प्रमाणं वा चूडकः/ ७.२.११> एकाम् एव लतिकां प्रमाणवशेन वेष्टयेद् इत्य् एकचूडकः/ ७.२.१२> उभयतोमुखच्छिद्रः स्थूलकर्कश*पृषत[अन्यत्र : वृषण]गुटिकायुक्तः प्रमाण*योगी[अन्यत्र : वशयोगी] कठ्यां बद्धः कञ्चुको जालकं वा/ ७.२.१३> तदभावे +अलाबूनालकं वेणुश् च तैलकषायैः सुभावितः *सूत्रजङ्घा[अन्यत्र : सूत्रेणकट्याम्]बद्धः श्लक्ष्णा काष्ठमालाल् वा ग्रथिता बहुभिर् आमलकअस्थिभिः संयुक्तैत्य् अपविद्धयोगाः/ ७.२.१४> न त्व् *अपविद्धस्य[अन्यत्र : विद्धस्य] कस्य चिद् व्यवहृतिर् अस्तिइति ७.२.१५> दाक्षिणात्यानां लिङ्गस्य कर्णयोर् इव व्यधनं बालस्य/ ७.२.१६> युवा तु शस्त्रेण च्छेदयित्वा यावद् रुधिरस्यआगमनं तावद् उदके तिष्ठेत्/ ७.२.१७> वैशद्यअर्थं च तस्यां रात्रौ निर्बन्धाद् व्यवायः/ ७.२.१८> ततः कषायैर् एकदिनअन्तरितं शोधनम्/ ७.२.१९> वेतसकुटजशङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर् बन्धनम्/ ७.२.२०> यष्टीमधुकेन मधुयुक्तेन शोधनम्/ ७.२.२१> ततः *सीस[अन्यत्र : सीसक]पत्रकर्णिकया वर्धयेत्/ ७.२.२२> म्रक्षयेद् भल्लातकतैलेनैति व्यधनयोगाः/ ७.२.२३> तस्मिन्न् अनेकआकृतिविकल्पान्य् अपद्रव्याणि योजयेत्/ ७.२.२४> वृत्तम् एकतो वृत्तम् उदूखलकं कुसुमकं कण्टकितं कङ्कअस्थिगज*प्रहारिकम्[अन्यत्र : करकम्] अष्ट*मण्डलिकं[अन्यत्र : मण्डलकं] भ्रमरकं शृङ्गाटकम् अन्यानि वाउपायतः कर्मतश् च बहुकर्मसहता चएषां मृदुकर्कशता यथा सात्म्यम् इति नष्टरागप्रत्यानयनम्/ (*द्वाषष्टितमं[अन्यत्र : द्विषष्टितमं] प्रकरणम्//) ७.२.२५> एवं वृक्षजानां जन्तूनं शूकैर् *उपलिप्तं[अन्यत्र : पहितं] लिङ्गं दशरात्रं तैलेन मृदितं पुनः *पुनर् उपलिप्तं[अन्यत्र : ुपतृंहितं] पुनः प्रमृदितम् इति जातशोफं खट्वायाम् अधोमुखस् तद् अन्तरे लम्बयेत्/ ७.२.२६> *ततः[अन्यत्र : तत्र] शीतैः कषायैः कृतवेदनानिग्रहं सौपक्रमेण निष्पादयेत्/ ७.२.२७> स यावज् जीवं शूकजो नाम शोफो विटानाम्/ ७.२.२८> अश्वगन्धाशबरकन्दजलशूकबृहतीफलमाहिषनवनीतहस्तिकर्ण् अवज्रवल्लीरसैर् एकैकेन परिमर्दनं मासिकं वर्धनम्/ ७.२.२९> एतैर् एव कषायैः पक्वेन तैलेन परिमर्दनं षण्मास्यम्/ ७.२.३०> दाडिम*त्रपुस[अन्यत्र : त्रपुष]बीजानि *बालुकं[अन्यत्र : बालुका] बृहतीफलरसश् चैति मृद्वग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा/ ७.२.३१> तास् तांश् च योगान् आप्तेभ्यो बुध्येतैति वर्धनयोगाः/ (त्रिषष्टितमं प्रकरणम्//) ७.२.३२> [अन्यत्र : थ]स्नुहीकण्टकचूर्णैः पुनर्नवावानरपुरीषलाङ्गलिकामूलमिश्रैर्याम् अवकिरेत् सा नअन्यं कामयेत/ ७.२.३३> तथा सोमलता*अवल्गुज[अन्यत्र : वल्गुजा]भृङ्गलोहौपजिह्विकाचूर्णैर् व्याधिघातकजम्बूफलरसनिर्यासेन घनीकृतेन लिप्तसंबाधां गच्छतो रागो नश्यति/ ७.२.३४> गोपालिकाबहुपादिकाजिह्विकाचूर्णैर् माहिषतक्रयुक्तैः *स्नायायां[अन्यत्र : स्नातां] गच्छतो रागो नश्यति/ ७.२.३५> नीपआम्रातकजम्बूकुसुमयुक्तम् अनुलेपनं दौर्भाग्यकरं स्रजश् च/ ७.२.३६> कोकिलाक्ष*फल[छ् ओमित्स्]प्रलेपो हस्तिन्याः संहतम् एक*रात्रं[अन्यत्र : रात्रे] करोति/ ७.२.३७> पद्मौत्पल*कन्द[अन्यत्र : कदम्ब]सर्जकसुगन्धचूर्णानि मधुना पिष्टानि लेपो मृग्या विशालीकरणम्/ ७.२.३८> स्नुहीसोमअर्क*क्षीरैर्[अन्यत्र : क्षारैर्] अवल्गुजाफलैर् भावितान्य् आमलकानि केशानां श्वेतीकरणम्/ ७.२.३९> मदयन्तिकाकुटजकअञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः *स्नानां[अन्यत्र : स्नानं] *केश[अन्यत्र : केशाणां]प्रत्यानयनम्/ ७.२.४०> एतैर् एव सुपक्वेन तैलेनअभ्यङ्गात् कृष्णी*करणं[अन्यत्र : करणात्] क्रमेणअस्य प्रत्यानयनम्/ ७.२.४१> श्वेताश्वस्य मुष्कस्वेदैः सप्तकृत्वो भावितेनअलक्तकेन रक्तो +अधरः श्वेतो भवति/ ७.२.४२> मदयन्तिकाआदीन्य् एव प्रत्यानयनम्/ ७.२.४३> बहुपादिकाकुष्ठतगरतालीसदेवदारुवज्रकन्दकैर् उपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति/ ७.२.४४> धत्तूरफलयुक्तो +अभ्यवहार उन्माद*करः[अन्यत्र : कः]/ ७.२.४५> *गुडों[अन्यत्र : गुडो] जीर्णितश् च प्रत्यानयनम्/ ७.२.४६> हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद् द्रव्यं स्पृशति तन् न दृश्यते/ ७.२.४७> अङ्गारतृणभस्मना तैलेन विमिश्रम् उदकं क्षीरवर्णं भवति/ ७.२.४८> *हरीतक्य्[अन्यत्र : हरीतक]आम्रातकयोः श्रवणप्रियंगुकाभिश् च पिष्टाभिर् लिप्तानि लोहभाण्डानि ताम्रीभवन्ति/ ७.२.४९> श्रवणप्रियंगुकातैलेन दुकूलसर्पनिर्मोकेण वर्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद् दृश्यन्ते/ ७.२.५०> श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं यशस्यम् आयुष्यम्/ ७.२.५१> ब्राह्मणानां प्रशस्तान् आमाशिषः/ (इति चित्रा योगाः/ चतुःषष्टितमं प्रकरणम्// ७.२.५२क > पूर्वशास्त्राणि संदृश्य प्रयोगान् *उपसृत्य[अन्यत्र : न्सृत्य] च/ ७.२.५२ख > कामसूत्रम् इदं यत्नात् संक्षेपेण निर्वेशितम्[निवेदितम्]// ७.२.५३क > धर्मम् अर्थं च कामं च प्रत्ययं लोकम् एव च/ ७.२.५३ख > पश्यत्य् एतस्य तत्त्वज्ञो न च रागात् प्रवर्तते// ७.२.५४क > अधिकारवशाद् उक्ता ये चित्रा रागवर्धनाः/ ७.२.५४ख > तदनन्तरम् अत्रएव ते यत्नाद् विनिवारिताः// ७.२.५५क > न शास्त्रम् अस्तिइत्य् एतेन प्रयोगो हि समीक्ष्यते/ ७.२.५५ख > शास्त्रअर्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एकदेशिकान्// ७.२.५६क > बाभ्रवीयांश् च सूत्रअर्थान् *आगमं सुविमृश्य[अन्यत्र : ागमय्य विमृश्य] च/ ७.२.५६ख > वात्स्यायनश् चकारैदं कामसूत्रं यथाविधि// ७.२.५७क > तद् एतद् ब्रमचर्येण परेण च समाधिना/ ७.२.५७ख > विहितं *लोकयात्रायै[अन्यत्र : लोकयात्राअर्थं] न रागार्थो +अस्य संविधिः// ७.२.५८क > रक्षन्धर्मअर्थकामानां स्थितिं स्वां लोकवर्तिनीम्/ ७.२.५८ख > अस्य शास्त्रस्य तत्त्वज्ञो भवत्य् एव जितेन्द्रियः// ७.२.५९क > तद् एतत् कुशलो विद्वान् धर्मअथाव् अवलोकयन्/ ७.२.५९ख > नअतिरागआत्मकः कामी प्रयुञ्जानः प्रसिध्यति// |