The Kama Sutra of Vatsyayana वात्स्यायन का कामसूत्रसांप्रयोगिकं नाम द्वितीयम् अधिकरणम् रतअरम्भअवसानिकं रतविशेषाः प्रणयकलहश् च २.१०.१> नागरकः सह मित्रजनेन परिचारकैश् च कृतपुष्पौपहारे संचारितसुरभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्या पीतां स्त्रियं सान्त्वनैः पुनः पानेन चौपक्रमेत्/ २.१०.२> दक्षिणतश् चअस्या उपवेशनम्/ केशहस्ते वस्त्रअन्ते नीव्याम् इत्य् अवलम्बनम्/ रत्यर्थं सव्येन बाहुनाअनुद्धतः परिष्वङ्गः/ २.१०.३क > पूर्वप्रकरणसंबद्धैः परिहासअनुरागैर् वचोभिर् अनुवृत्तिः/ २.१०.३ख > गूढअश्लीलानां च वस्तूनां समस्यया परिभाषणम्/ २.१०.४> सनृत्तम् अनृत्तं वा गीतं वादित्रम्/ कलासु संकथाः/ पुनः पानेनौपच्छन्दनम्/ २.१०.५> जातअनुरागायां कुसुमअनुलेपनताम्बूल दानेन च शेषजनविसृष्टिः/ विजने च यथाउक्तैर् आलिङ्गनआदिभिर् एनाम् उद्धर्षयेत्/ ततो नीवीविश्लेषणआदि यथाउक्तम् उपक्रमेत/ इत्य् अयं रतआरम्भः// २.१०.६> रतअवसानिकं रागम् अतिवाह्यअसंस्तुतयोर् इव सव्रीडयोः परस्परम् अपश्यतोः पृथक् पृथग् आचारभूमिगमनम्/ प्रतिनिवृत्त्य चआव्रीडायमानयोर् उचितदेशौपविष्टयोस् ताम्बूलग्रहणम् अच्छीकृतं चन्दनम् अन्यद् वाअनुलेपनं तस्या गात्रे स्वयम् एव निवेशयेत्/ २.१०.७> सव्येन बाहुना चएनां परिरभ्य चषकहस्तः सान्त्वयन् पाययेत्/ जलअनुपानं वा खण्डखाद्यकम् अन्यद् वा प्रकृतिसात्म्ययुक्तम् उभाव् अप्य् उपयुञ्जीयाताम्/ २.१०.८> अच्छरसकयूषम् अम्लयवागूं भृष्टमांसौपदंशानि पानकानि चूतफलानि शुष्कमांसं मातुलुङ्गचुक्रकाणि सशर्कराणि च यथादेशसात्म्यं च/ तत्र मधुरम् इदं मृदु विशदम् इति च विदश्य विदश्य तत् तद् उपाहरेत्/ २.१०.९> हर्म्यतलस्थितयोर् वा चन्द्रिकासेवनअर्थम् आसनम्/ तत्रअनुकूलाभिः कथाभिर् अनुवर्तेत/ तदङ्कसंलीनायाश् चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्तीकरणम्/ अरुन्धतीध्रुवसप्तर्षिमालादर्शनं च/ इति रतअवसानिकम्// २.१०.१०क > अवसाने +अपि च प्रीतिर् उपचारैर् उपस्कृता/ २.१०.१०ख > सविस्रम्भकथायोगै रतिं जनयते पराम्// २.१०.११क > परस्परप्रीतिकरैर् आत्मभावअनुवर्तनैः/ २.१०.११ख > क्षणात् क्रोधपरावृत्तैः क्षणात् प्रीतिविलोकितैः// २.१०.१२क > हल्लीसकक्रीडनकैर् गायनैर् लाटरासकैः/ २.१०.१२ख > रागलोलआर्द्रनयनैश् चन्द्रमण्डलवीक्षणैः// २.१०.१३क > आद्ये संदर्शने जाते पूर्वं ये स्युर् मनोरथाः/ २.१०.१३ख > पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः// २.१०.१३ग> कीर्तनअन्ते च रागेण परिष्वङ्गैः सचुम्बनैः/ २.१०.१३घ> तैस् तैश् च भावैः संयुक्तो यूनो रागो विवर्धते// २.१०.१४> रागवद् आहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरतम् अयन्त्रितरतम् इति रतविशेषाः// २.१०.१५> संदर्शनात् प्रभृत्य् उभयोर् अपि प्रवृद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्रागवत्// २.१०.१६> तत्रआत्मअभिप्रायाद् यावद् अर्थं च प्रवृत्तिः// २.१०.१७> मध्यस्थरागयोर् आरब्धं यद् अनुरज्यते तद् आहार्यरागम्// २.१०.१८> तत्र चातुःषष्टिकैर् योगैः सात्म्यअनुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत/ २.१०.१९> तत्कार्यहेतोर् अन्यत्र सक्तयोर् वा कृत्रिमरागम्// २.१०.२०> तत्र समुच्चयेन योगाञ् शास्त्रतः पश्येत्// २.१०.२१> पुरुषस् तु हृदयप्रियाम् अन्यां मनसि निधाय व्यवहरेत्/ संप्रयोगात् प्रभृति रतिं यावत्/ अतस् तद्व्यवहितरागम्// २.१०.२२> न्यूनायां कुम्भदास्यां परिचारिकायां वा यावद् अर्थं संप्रयोगस् तत्पोटारतम्// २.१०.२३> तत्रौपचारान् नआद्रियेत// २.१०.२४> तथा वेश्याया ग्रामीणेन सह यावद् अर्थं खलरतम्// २.१०.२५> ग्रामव्रजप्रत्यन्तयोषिद्भिश् च नागरकस्य// २.१०.२६> उत्पन्नविस्रम्भयोश् च परस्परअनुकूल्याद् अयन्त्रितरतम्/ इति रतानि// २.१०.२७> वर्धमानप्रणया तु नायिका सपत्नीनाम् अग्रहणं तदाश्रयम् आलापं वा गोत्रस्खलितं वा न मर्षयेत्/ नायकव्यलीकं च// २.१०.२८> तत्र सुभृशः कलहो रुदितम् आयासः शिरोरुहाणाम् अवक्षोदनं प्रहणनम् आसनाच् छयनाद् वा मह्यां पतनं माल्यभूषणअवमोक्षो भूमौ शय्या च// २.१०.२९> तत्र युक्तरूपेण साम्ना पादपतनेन वा प्रसन्नमनास् ताम् अनुनयन्न् उपक्रम्य शयनम् आरोहयेत्// २.१०.३०> तस्य च वचनम् उत्तरेण योजयन्ती विवृद्धक्रोधा सकचग्रहम् अस्यआस्यम् उन्नमय्य पादेन बाहौ शिरोसि वक्षसि पृष्ठे वा सकृद् द्विस् त्रिर् अवहन्यात्/ द्वारदेशं गच्छेत्/ तत्रौपविश्यअश्रुकरणम् इति/ २.१०.३१> अतिक्रुद्धाअपि तु न द्वारदेशाद् भूयो गच्छेत्/ दोषवत्त्वात्/ इति दत्तकः/ तत्र युक्तितो +अनुनीयमाना प्रसादम् आकाङ्क्षेत्/ प्रसन्नाअपि तु सकषायैर् एव वाक्यैर् एनं तुदतीइव प्रसन्नरतिकाङ्क्षिणी नायकेन परिरभ्येत// २.१०.३२> स्वभवनस्था तु निमित्तात् कलहिता तथाविधचेष्टाएव नायकम् अभिगच्छेत्/ २.१०.३३> तत्र पीठमर्दविटविदूषकैर् नायकप्रयुक्तैर् उपशमितरोषा तैर् एवअनुनीता तैः सहएव तद्भवनम् अधिगच्छेत्/ तत्र च वसेत्/ इति प्रणयकलहः// भवन्ति चअत्र श्लोकाः --- २.१०.३४कख> एवम् एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम्/ २.१०.३४गघ> प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः// २.१०.३५कख> ब्रुवन्न् अप्य् अन्यशास्त्राणि चतुःषष्टिविवर्जितः/ २.१०.३५गघ> विद्वत्संसदि नअत्यर्थं कथासु परिपूज्यते// २.१०.३६कख> वर्जितो +अप्य् अन्यविज्ञानैर् एतया यस् त्व् अलंकृतः/ २.१०.३६गघ> स गोष्ठ्यां नरनारीणां कथास्व् अग्रं विगाहते// २.१०.३७कख> विद्वद्भिः पूजिताम् एनां खलैर् अपि सुपूजिताम्/ २.१०.३७गघ> पूजितां गणिकासंघैर् नन्दिनीं को न पूजयेत्// २.१०.३८कख> नन्दिनी सुभगा सिद्धा सुभगंकरणीइति च/ २.१०.३८गघ> नारीप्रियाइति चआचार्यैः शास्त्रेष्व् एषा निरुच्यते// २.१०.३९कख> कन्याभिः परयोषिद्भिर् गणिकाभिश् च भावतः/ २.१०.३९गघ> वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः// |