| मां दुर्गा के नवरुप | श्री दुर्गा चालीसा | श्री विन्ध्येश्वरी चालीसा | श्री विन्ध्येश्वरी स्तोत्र |
| दुर्गा मन्त्र | श्री दुर्गा आरती | श्री विन्ध्येश्वरी आरती | श्रीदुर्गाद्वात्रिंशन्नाममाला |
श्री विन्ध्येश्वरी स्तोत्र
श्री विन्ध्येश्वरी स्तोत्र निशुम्भ-शुम्भ-गर्जनीं, प्रचण्ड-मुण्ड-खण्डिनीम् । वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥ त्रिशुल-मुण्ड-धारिणीं धरा-विघात-हारिणीम् । गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥ दरिद्रदुःख-हारिणीं, सदा विभुतिकारिणीम् । वियोग-शोक-हारिणीं, भजामि विन्ध्यवासिनीम् ॥ लसत्सुलोल-लोचनं लतासनं वरप्रदम् । कपाल-शुल-धारिणीं, भजामि विन्ध्यवासिनीम् ॥ कराब्जदानदाधरां, शिवाशिवां प्रदायिनीम् । वरा-वराननां शुभां भजामि विन्ध्यवासिनीम् ॥ ऋषिन्द्रजामिनीप्रदां, त्रिधा स्वरूप-धारिणीम् । जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥ विशिष्ट-शिष्ट-कारिणीं, विशाल रूप-धारिणीम् । महोदरे विलासिनीं, भजामि विन्ध्यवासिनीम् ॥ पुरन्दरादि-सेवितां पुरादिवंशखण्डिताम् । विशुद्ध-बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥ |